Ṛgveda · Maṇḍala 4 · Sūkta 38

Ṛk 4.38.10

Divaḥ, Pṛthivī · Dadhikrā · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

आ द॑धि॒क्राः शव॑सा॒ पंच॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान ।
स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥

आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान |
सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ||

ā́ dadhikrā́ḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣāpástatāna ǀ
sahasrasā́ḥ śatasā́ vājyárvā pṛṇáktu mádhvā sámimā́ vácāṃsi ǁ

ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi ||

Padapāṭha

आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ।
स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥

आ । दधिऽक्राः । शवसा । पञ्च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान ।
सहस्रऽसाः । शतऽसाः । वाजी । अर्वा । पृणक्तु । मध्वा । सम् । इमा । वचांसि ॥

ā́ ǀ dadhi-krā́ḥ ǀ śávasā ǀ páñca ǀ kṛṣṭī́ḥ ǀ sū́ryaḥ-iva ǀ jyótiṣā ǀ apáḥ ǀ tatāna ǀ
sahasra-sā́ḥ ǀ śata-sā́ḥ ǀ vājī́ ǀ árvā ǀ pṛṇáktu ǀ mádhvā ǀ sám ǀ imā́ ǀ vácāṃsi ǁ

ā ǀ dadhi-krāḥ ǀ śavasā ǀ pañca ǀ kṛṣṭīḥ ǀ sūryaḥ-iva ǀ jyotiṣā ǀ apaḥ ǀ tatāna ǀ
sahasra-sāḥ ǀ śata-sāḥ ǀ vājī ǀ arvā ǀ pṛṇaktu ǀ madhvā ǀ sam ǀ imā ǀ vacāṃsi ǁ

References

Maṇḍala · Sūkta · Ṛk
04.038.10
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.12.05
Maṇḍala · Anuvāka · Ṛk
04.04.058
Devatā देवता
1: Divaḥ, Pṛthivī; 2-10: Dadhikrā
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.38.10

Interpretations

Sāyaṇa

उपोद्घातः

पवित्रेष्टावा दधिक्रा इति दधिक्राव्णो याज्या । तथा च सूत्रितं । दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः । आ. २-१२ ॥ इति ॥

यो दधिक्रा देवः शवसा बलेन पञ्च कृष्टीः पञ्च जनान् देवमनुष्यासुर रक्षः पितृसंज्ञकान्निषादपञ्चमान् चतुरो वर्णान्वा सूर्यो ज्योतिषा तेजसा यथा जगदावृणोति तद्वदप उदकान्या ततान । आतनोति । सहस्रसाः शतसाः शतानां सहस्राणां च दाता वाजी वेजनवानर्वारनकुशलः स देवो मध्वा मधुना मधुरेण फलेनेमेमान्युक्तानि स्तुतिवाचांसि संपृणक्तु । संयोजयतु ॥ १० ॥