Ṛk 4.39.1
Saṃhitā
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।
उ॒च्छंती॒र्मामु॒षसः॑ सूदयं॒त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥
आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम |
उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ||
āśúm dadhikrā́m támu nú ṣṭavāma diváspṛthivyā́ utá carkirāma ǀ
ucchántīrmā́muṣásaḥ sūdayantváti víśvāni duritā́ni parṣan ǁ
āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma |
ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan ||
Padapāṭha
आ॒शुम् । द॒धि॒ऽक्राम् । तम् । ऊं॒ इति॑ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ ।
उ॒च्छन्तीः॑ । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒तानि॑ । प॒र्ष॒न् ॥
आशुम् । दधिऽक्राम् । तम् । ऊं इति । नु । स्तवाम । दिवः । पृथिव्याः । उत । चर्किराम ।
उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुःऽइतानि । पर्षन् ॥
āśúm ǀ dadhi-krā́m ǀ tám ǀ ūṃ íti ǀ nú ǀ stavāma ǀ diváḥ ǀ pṛthivyā́ḥ ǀ utá ǀ carkirāma ǀ
ucchántīḥ ǀ mā́m ǀ uṣásaḥ ǀ sūdayantu ǀ áti ǀ víśvāni ǀ duḥ-itā́ni ǀ parṣan ǁ
āśum ǀ dadhi-krām ǀ tam ǀ ūṃ iti ǀ nu ǀ stavāma ǀ divaḥ ǀ pṛthivyāḥ ǀ uta ǀ carkirāma ǀ
ucchantīḥ ǀ mām ǀ uṣasaḥ ǀ sūdayantu ǀ ati ǀ viśvāni ǀ duḥ-itāni ǀ parṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.039.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.13.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.059
- Devatā देवता
- Dadhikrā
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.