Ṛgveda · Maṇḍala 4 · Sūkta 39

Ṛk 4.39.6

Dadhikrā · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥

दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः |
सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ||

dadhikrā́vṇo akāriṣam jiṣṇóráśvasya vājínaḥ ǀ
surabhí no múkhā karatprá ṇa ā́yūṃṣi tāriṣat ǁ

dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ |
surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||

Padapāṭha

द॒धि॒ऽक्राव्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ।
सु॒र॒भि । नः॒ । मुखा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥

दधिऽक्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः ।
सुरभि । नः । मुखा । करत् । प्र । नः । आयूंषि । तारिषत् ॥

dadhi-krā́vṇaḥ ǀ akāriṣam ǀ jiṣṇóḥ ǀ áśvasya ǀ vājínaḥ ǀ
surabhí ǀ naḥ ǀ múkhā ǀ karat ǀ prá ǀ naḥ ǀ ā́yūṃṣi ǀ tāriṣat ǁ

dadhi-krāvṇaḥ ǀ akāriṣam ǀ jiṣṇoḥ ǀ aśvasya ǀ vājinaḥ ǀ
surabhi ǀ naḥ ǀ mukhā ǀ karat ǀ pra ǀ naḥ ǀ āyūṃṣi ǀ tāriṣat ǁ

References

Maṇḍala · Sūkta · Ṛk
04.039.06
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.13.06
Maṇḍala · Anuvāka · Ṛk
04.04.064
Devatā देवता
Dadhikrā
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.39.6

Interpretations

Sāyaṇa

उपोद्घातः

दधिक्राव्णो अकारिषमिति षष्ठी पवित्रेष्ट्या अनुवाक्या । सूत्रितं च । दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः । आ. २-१२ । इति । दधिद्रप्सभक्षणेऽप्येषा । दधिक्राव्णो अकारिषमित्याग्नीध्रीये दधिद्रप्सान् भक्षयन्ति । आ. ६-१२ । इति सूत्रितत्वात् ॥

दधिक्राव्णो देवस्य स्तुतिमकारिषं । करवाणि । जिष्णोर्जयशीलस्याश्वस्य व्यापकस्य वाजिनो वेगवतः । स देवो नोऽस्माकं मुखा मुखानि चक्षुरादीन्द्रियाणि सुरभि सुरभीणि करत् । करोतु । नोऽस्मभ्यमायूंषि प्रतारिषत् । प्रवर्धयतु । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ६ ॥