Ṛk 4.4.2
Saṃhitā
तव॑ भ्र॒मास॑ आशु॒या प॑तं॒त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥
तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः |
तपूंष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ||
táva bhramā́sa āśuyā́ patantyánu spṛśa dhṛṣatā́ śóśucānaḥ ǀ
tápūṃṣyagne juhvā́ pataṃgā́násaṃdito ví sṛja víṣvagulkā́ḥ ǁ
tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ |
tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ ||
Padapāṭha
तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ।
तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥
तव । भ्रमासः । आशुऽया । पतन्ति । अनु । स्पृश । धृषता । शोशुचानः ।
तपूंषि । अग्ने । जुह्वा । पतङ्गान् । असम्ऽदितः । वि । सृज । विष्वक् । उल्काः ॥
táva ǀ bhramā́saḥ ǀ āśu-yā́ ǀ patanti ǀ ánu ǀ spṛśa ǀ dhṛṣatā́ ǀ śóśucānaḥ ǀ
tápūṃṣi ǀ agne ǀ juhvā́ ǀ pataṅgā́n ǀ ásam-ditaḥ ǀ ví ǀ sṛja ǀ víṣvak ǀ ulkā́ḥ ǁ
tava ǀ bhramāsaḥ ǀ āśu-yā ǀ patanti ǀ anu ǀ spṛśa ǀ dhṛṣatā ǀ śośucānaḥ ǀ
tapūṃṣi ǀ agne ǀ juhvā ǀ pataṅgān ǀ asam-ditaḥ ǀ vi ǀ sṛja ǀ viṣvak ǀ ulkāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.004.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.23.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.058
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.