Ṛk 4.4.11
Saṃhitā
म॒हो रु॑जामि बं॒धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।
त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥
महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय |
त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ||
mahó rujāmi bandhútā vácobhistánmā pitúrgótamādánviyāya ǀ
tvám no asyá vácasaścikiddhi hótaryaviṣṭha sukrato dámūnāḥ ǁ
maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya |
tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ ||
Padapāṭha
म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ ।
त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥
महः । रुजामि । बन्धुता । वचःऽभिः । तत् । मा । पितुः । गोतमात् । अनु । इयाय ।
त्वम् । नः । अस्य । वचसः । चिकिद्धि । होतः । यविष्ठ । सुक्रतो इति सुऽक्रतो । दमूनाः ॥
maháḥ ǀ rujāmi ǀ bandhútā ǀ vácaḥ-bhiḥ ǀ tát ǀ mā ǀ pitúḥ ǀ gótamāt ǀ ánu ǀ iyāya ǀ
tvám ǀ naḥ ǀ asyá ǀ vácasaḥ ǀ cikiddhi ǀ hótaḥ ǀ yaviṣṭha ǀ sukrato íti su-krato ǀ dámūnāḥ ǁ
mahaḥ ǀ rujāmi ǀ bandhutā ǀ vacaḥ-bhiḥ ǀ tat ǀ mā ǀ pituḥ ǀ gotamāt ǀ anu ǀ iyāya ǀ
tvam ǀ naḥ ǀ asya ǀ vacasaḥ ǀ cikiddhi ǀ hotaḥ ǀ yaviṣṭha ǀ sukrato iti su-krato ǀ damūnāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.004.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.25.01
- Maṇḍala · Anuvāka · Ṛk
- 04.01.067
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.