Ṛk 4.4.6
Saṃhitā
स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।
विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् |
विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ||
sá te jānāti sumatím yaviṣṭha yá ī́vate bráhmaṇe gātúmáirat ǀ
víśvānyasmai sudínāni rāyó dyumnā́nyaryó ví dúro abhí dyaut ǁ
sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat |
viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut ||
Padapāṭha
सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ।
विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॒त् ॥
सः । ते । जानाति । सुऽमतिम् । यविष्ठ । यः । ईवते । ब्रह्मणे । गातुम् । ऐरत् ।
विश्वानि । अस्मै । सुऽदिनानि । रायः । द्युम्नानि । अर्यः । वि । दुरः । अभि । द्यौत् ॥
sáḥ ǀ te ǀ jānāti ǀ su-matím ǀ yaviṣṭha ǀ yáḥ ǀ ī́vate ǀ bráhmaṇe ǀ gātúm ǀ áirat ǀ
víśvāni ǀ asmai ǀ su-dínāni ǀ rāyáḥ ǀ dyumnā́ni ǀ aryáḥ ǀ ví ǀ dúraḥ ǀ abhí ǀ dyaut ǁ
saḥ ǀ te ǀ jānāti ǀ su-matim ǀ yaviṣṭha ǀ yaḥ ǀ īvate ǀ brahmaṇe ǀ gātum ǀ airat ǀ
viśvāni ǀ asmai ǀ su-dināni ǀ rāyaḥ ǀ dyumnāni ǀ aryaḥ ǀ vi ǀ duraḥ ǀ abhi ǀ dyaut ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.004.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.24.01
- Maṇḍala · Anuvāka · Ṛk
- 04.01.062
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.