Ṛk 4.3.10
Saṃhitā
ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।
अस्पं॑दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥
ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्येन |
अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ||
ṛténa hí ṣmā vṛṣabháścidaktáḥ púmām̐ agníḥ páyasā pṛṣṭhyéna ǀ
áspandamāno acaradvayodhā́ vṛ́ṣā śukrám duduhe pṛ́śnirū́dhaḥ ǁ
ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ agniḥ payasā pṛṣṭhyena |
aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ ||
Padapāṭha
ऋ॒तेन॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ठ्ये॑न ।
अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥
ऋतेन । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ठ्येन ।
अस्पन्दमानः । अचरत् । वयःऽधाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥
ṛténa ǀ hí ǀ sma ǀ vṛṣabháḥ ǀ cit ǀ aktáḥ ǀ púmān ǀ agníḥ ǀ páyasā ǀ pṛṣṭhyéna ǀ
áspandamānaḥ ǀ acarat ǀ vayaḥ-dhā́ḥ ǀ vṛ́ṣā ǀ śukrám ǀ duduhe ǀ pṛ́śniḥ ǀ ū́dhaḥ ǁ
ṛtena ǀ hi ǀ sma ǀ vṛṣabhaḥ ǀ cit ǀ aktaḥ ǀ pumān ǀ agniḥ ǀ payasā ǀ pṛṣṭhyena ǀ
aspandamānaḥ ǀ acarat ǀ vayaḥ-dhāḥ ǀ vṛṣā ǀ śukram ǀ duduhe ǀ pṛśniḥ ǀ ūdhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.003.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.21.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.050
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.