Ṛk 4.3.2
Saṃhitā
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।
अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥
अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः |
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ||
ayám yóniścakṛmā́ yám vayám te jāyéva pátya uśatī́ suvā́sāḥ ǀ
arvācīnáḥ párivīto ní ṣīdemā́ u te svapāka pratīcī́ḥ ǁ
ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ |
arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ ||
Padapāṭha
अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ।
अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥
अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाऽइव । पत्ये । उशती । सुऽवासाः ।
अर्वाचीनः । परिऽवीतः । नि । सीद । इमाः । ऊं इति । ते । सुऽअपाक । प्रतीचीः ॥
ayám ǀ yóniḥ ǀ cakṛmá ǀ yám ǀ vayám ǀ te ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǀ
arvācīnáḥ ǀ pári-vītaḥ ǀ ní ǀ sīda ǀ imā́ḥ ǀ ūṃ íti ǀ te ǀ su-apāka ǀ pratīcī́ḥ ǁ
ayam ǀ yoniḥ ǀ cakṛma ǀ yam ǀ vayam ǀ te ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǀ
arvācīnaḥ ǀ pari-vītaḥ ǀ ni ǀ sīda ǀ imāḥ ǀ ūṃ iti ǀ te ǀ su-apāka ǀ pratīcīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.003.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.20.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.042
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.