Ṛk 4.3.15
Saṃhitā
ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।
उ॒त ब्रह्मा॑ण्यंगिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥
एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् |
उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ||
ebhírbhava sumánā agne arkáirimā́ntspṛśa mánmabhiḥ śūra vā́jān ǀ
utá bráhmāṇyaṅgiro juṣasva sám te śastírdevávātā jareta ǁ
ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān |
uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta ||
Padapāṭha
ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् ।
उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒वऽवा॑ता । ज॒रे॒त॒ ॥
एभिः । भव । सुऽमनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्मऽभिः । शूर । वाजान् ।
उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देवऽवाता । जरेत ॥
ebhíḥ ǀ bhava ǀ su-mánāḥ ǀ agne ǀ arkáiḥ ǀ imā́n ǀ spṛśa ǀ mánma-bhiḥ ǀ śūra ǀ vā́jān ǀ
utá ǀ bráhmāṇi ǀ aṅgiraḥ ǀ juṣasva ǀ sám ǀ te ǀ śastíḥ ǀ devá-vātā ǀ jareta ǁ
ebhiḥ ǀ bhava ǀ su-manāḥ ǀ agne ǀ arkaiḥ ǀ imān ǀ spṛśa ǀ manma-bhiḥ ǀ śūra ǀ vājān ǀ
uta ǀ brahmāṇi ǀ aṅgiraḥ ǀ juṣasva ǀ sam ǀ te ǀ śastiḥ ǀ deva-vātā ǀ jareta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.003.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.22.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.055
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.