Ṛk 4.20.3
Saṃhitā
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिंद्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।
श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥
इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः |
श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ||
imám yajñám tvámasmā́kamindra puró dádhatsaniṣyasi krátum naḥ ǀ
śvaghnī́va vajrintsanáye dhánānām tváyā vayámaryá ājím jayema ǁ
imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ |
śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema ||
Padapāṭha
इ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ ।
श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥
इमम् । यज्ञम् । त्वम् । अस्माकम् । इन्द्र । पुरः । दधत् । सनिष्यसि । क्रतुम् । नः ।
श्वघ्नीऽइव । वज्रिन् । सनये । धनानाम् । त्वया । वयम् । अर्यः । आजिम् । जयेम ॥
imám ǀ yajñám ǀ tvám ǀ asmā́kam ǀ indra ǀ puráḥ ǀ dádhat ǀ saniṣyasi ǀ krátum ǀ naḥ ǀ
śvaghnī́-iva ǀ vajrin ǀ sanáye ǀ dhánānām ǀ tváyā ǀ vayám ǀ aryáḥ ǀ ājím ǀ jayema ǁ
imam ǀ yajñam ǀ tvam ǀ asmākam ǀ indra ǀ puraḥ ǀ dadhat ǀ saniṣyasi ǀ kratum ǀ naḥ ǀ
śvaghnī-iva ǀ vajrin ǀ sanaye ǀ dhanānām ǀ tvayā ǀ vayam ǀ aryaḥ ǀ ājim ǀ jayema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.020.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.03.03
- Maṇḍala · Anuvāka · Ṛk
- 04.02.101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.