Ṛk 4.20.2
Saṃhitā
आ न॒ इंद्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च |
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ||
ā́ na índro háribhiryātvácchārvācīnó’vase rā́dhase ca ǀ
tíṣṭhāti vajrī́ maghávā virapśī́mám yajñámánu no vā́jasātau ǁ
ā na indro haribhir yātv acchārvācīno 'vase rādhase ca |
tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau ||
Padapāṭha
आ । नः॒ । इन्द्रः॑ । हरि॑ऽभिः । या॒तु॒ । अच्छ॑ । अ॒र्वा॒ची॒नः । अव॑से । राध॑से । च॒ ।
तिष्ठा॑ति । व॒ज्री । म॒घऽवा॑ । वि॒ऽर॒प्शी । इ॒मम् । य॒ज्ञम् । अनु॑ । नः॒ । वाज॑ऽसातौ ॥
आ । नः । इन्द्रः । हरिऽभिः । यातु । अच्छ । अर्वाचीनः । अवसे । राधसे । च ।
तिष्ठाति । वज्री । मघऽवा । विऽरप्शी । इमम् । यज्ञम् । अनु । नः । वाजऽसातौ ॥
ā́ ǀ naḥ ǀ índraḥ ǀ hári-bhiḥ ǀ yātu ǀ áccha ǀ arvācīnáḥ ǀ ávase ǀ rā́dhase ǀ ca ǀ
tíṣṭhāti ǀ vajrī́ ǀ maghá-vā ǀ vi-rapśī́ ǀ imám ǀ yajñám ǀ ánu ǀ naḥ ǀ vā́ja-sātau ǁ
ā ǀ naḥ ǀ indraḥ ǀ hari-bhiḥ ǀ yātu ǀ accha ǀ arvācīnaḥ ǀ avase ǀ rādhase ǀ ca ǀ
tiṣṭhāti ǀ vajrī ǀ magha-vā ǀ vi-rapśī ǀ imam ǀ yajñam ǀ anu ǀ naḥ ǀ vāja-sātau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.020.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.03.02
- Maṇḍala · Anuvāka · Ṛk
- 04.02.100
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.