Ṛk 4.20.6
Saṃhitā
गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इंद्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।
आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टं ॥
गिरिर् न यः स्वतवां ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः |
आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ||
girírná yáḥ svátavām̐ ṛṣvá índraḥ sanā́devá sáhase jātá ugráḥ ǀ
ā́dartā vájram stháviram ná bhīmá udnéva kóśam vásunā nyṛ́ṣṭam ǁ
girir na yaḥ svatavāṃ ṛṣva indraḥ sanād eva sahase jāta ugraḥ |
ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam ||
Padapāṭha
गि॒रिः । न । यः । स्वऽत॑वान् । ऋ॒ष्वः । इन्द्रः॑ । स॒नात् । ए॒व । सह॑से । जा॒तः । उ॒ग्रः ।
आऽद॑र्ता । वज्र॑म् । स्थवि॑रम् । न । भी॒मः । उ॒द्नाऽइ॑व । कोश॑म् । वसु॑ना । निऽऋ॑ष्टम् ॥
गिरिः । न । यः । स्वऽतवान् । ऋष्वः । इन्द्रः । सनात् । एव । सहसे । जातः । उग्रः ।
आऽदर्ता । वज्रम् । स्थविरम् । न । भीमः । उद्नाऽइव । कोशम् । वसुना । निऽऋष्टम् ॥
giríḥ ǀ ná ǀ yáḥ ǀ svá-tavān ǀ ṛṣváḥ ǀ índraḥ ǀ sanā́t ǀ evá ǀ sáhase ǀ jātáḥ ǀ ugráḥ ǀ
ā́-dartā ǀ vájram ǀ stháviram ǀ ná ǀ bhīmáḥ ǀ udnā́-iva ǀ kóśam ǀ vásunā ǀ ní-ṛṣṭam ǁ
giriḥ ǀ na ǀ yaḥ ǀ sva-tavān ǀ ṛṣvaḥ ǀ indraḥ ǀ sanāt ǀ eva ǀ sahase ǀ jātaḥ ǀ ugraḥ ǀ
ā-dartā ǀ vajram ǀ sthaviram ǀ na ǀ bhīmaḥ ǀ udnā-iva ǀ kośam ǀ vasunā ǀ ni-ṛṣṭam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.020.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.04.01
- Maṇḍala · Anuvāka · Ṛk
- 04.02.104
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.