Ṛk 4.53.5
Saṃhitā
त्रिरं॒तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना ।
ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥
त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना |
तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ||
trírantárikṣam savitā́ mahitvanā́ trī́ rájāṃsi paribhústrī́ṇi rocanā́ ǀ
tisró dívaḥ pṛthivī́stisrá invati tribhírvratáirabhí no rakṣati tmánā ǁ
trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā |
tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā ||
Padapāṭha
त्रिः । अ॒न्तरि॑क्षम् । स॒वि॒ता । म॒हि॒ऽत्व॒ना । त्री । रजां॑सि । प॒रि॒ऽभूः । त्रीणि॑ । रो॒च॒ना ।
ति॒स्रः । दिवः॑ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒ऽभिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना॑ ॥
त्रिः । अन्तरिक्षम् । सविता । महिऽत्वना । त्री । रजांसि । परिऽभूः । त्रीणि । रोचना ।
तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रिऽभिः । व्रतैः । अभि । नः । रक्षति । त्मना ॥
tríḥ ǀ antárikṣam ǀ savitā́ ǀ mahi-tvanā́ ǀ trī́ ǀ rájāṃsi ǀ pari-bhū́ḥ ǀ trī́ṇi ǀ rocanā́ ǀ
tisráḥ ǀ dívaḥ ǀ pṛthivī́ḥ ǀ tisráḥ ǀ invati ǀ tri-bhíḥ ǀ vratáiḥ ǀ abhí ǀ naḥ ǀ rakṣati ǀ tmánā ǁ
triḥ ǀ antarikṣam ǀ savitā ǀ mahi-tvanā ǀ trī ǀ rajāṃsi ǀ pari-bhūḥ ǀ trīṇi ǀ rocanā ǀ
tisraḥ ǀ divaḥ ǀ pṛthivīḥ ǀ tisraḥ ǀ invati ǀ tri-bhiḥ ǀ vrataiḥ ǀ abhi ǀ naḥ ǀ rakṣati ǀ tmanā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.053.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.04.05
- Maṇḍala · Anuvāka · Ṛk
- 04.05.056
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.