Ṛk 4.53.1
Saṃhitā
तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।
छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यांदे॒वो अ॒क्तुभिः॑ ॥
तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः |
छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः ||
táddevásya savitúrvā́ryam mahádvṛṇīmáhe ásurasya prácetasaḥ ǀ
chardíryéna dāśúṣe yácchati tmánā tánno mahā́m̐ údayāndevó aktúbhiḥ ǁ
tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ |
chardir yena dāśuṣe yacchati tmanā tan no mahāṃ ud ayān devo aktubhiḥ ||
Padapāṭha
तत् । दे॒वस्य॑ । स॒वि॒तुः । वार्य॑म् । म॒हत् । वृ॒णी॒महे॑ । असु॑रस्य । प्रऽचे॑तसः ।
छ॒र्दिः । येन॑ । दा॒शुषे॑ । यच्छ॑ति । त्मना॑ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तुऽभिः॑ ॥
तत् । देवस्य । सवितुः । वार्यम् । महत् । वृणीमहे । असुरस्य । प्रऽचेतसः ।
छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तुऽभिः ॥
tát ǀ devásya ǀ savitúḥ ǀ vā́ryam ǀ mahát ǀ vṛṇīmáhe ǀ ásurasya ǀ prá-cetasaḥ ǀ
chardíḥ ǀ yéna ǀ dāśúṣe ǀ yácchati ǀ tmánā ǀ tát ǀ naḥ ǀ mahā́n ǀ út ǀ ayān ǀ deváḥ ǀ aktú-bhiḥ ǁ
tat ǀ devasya ǀ savituḥ ǀ vāryam ǀ mahat ǀ vṛṇīmahe ǀ asurasya ǀ pra-cetasaḥ ǀ
chardiḥ ǀ yena ǀ dāśuṣe ǀ yacchati ǀ tmanā ǀ tat ǀ naḥ ǀ mahān ǀ ut ǀ ayān ǀ devaḥ ǀ aktu-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.053.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.04.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.052
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.