Ṛgveda · Maṇḍala 4 · Sūkta 52

Ṛk 4.52.7

Uṣas · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

आ द्यां त॑नोषि र॒श्मिभि॒रांतरि॑क्षमु॒रु प्रि॒यं ।
उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥

आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् |
उषः शुक्रेण शोचिषा ||

ā́ dyā́m tanoṣi raśmíbhirā́ntárikṣamurú priyám ǀ
úṣaḥ śukréṇa śocíṣā ǁ

ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam |
uṣaḥ śukreṇa śociṣā ||

Padapāṭha

आ । द्याम् । त॒नो॒षि॒ । र॒श्मिऽभिः॑ । आ । अ॒न्तरि॑क्षम् । उ॒रु । प्रि॒यम् ।
उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥

आ । द्याम् । तनोषि । रश्मिऽभिः । आ । अन्तरिक्षम् । उरु । प्रियम् ।
उषः । शुक्रेण । शोचिषा ॥

ā́ ǀ dyā́m ǀ tanoṣi ǀ raśmí-bhiḥ ǀ ā́ ǀ antárikṣam ǀ urú ǀ priyám ǀ
úṣaḥ ǀ śukréṇa ǀ śocíṣā ǁ

ā ǀ dyām ǀ tanoṣi ǀ raśmi-bhiḥ ǀ ā ǀ antarikṣam ǀ uru ǀ priyam ǀ
uṣaḥ ǀ śukreṇa ǀ śociṣā ǁ

References

Maṇḍala · Sūkta · Ṛk
04.052.07
Aṣṭaka · Adhyāya · Varga · Ṛk
3.8.03.07
Maṇḍala · Anuvāka · Ṛk
04.05.051
Devatā देवता
Uṣas
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.52.7

Interpretations

Sāyaṇa

उपोद्घातः

आद्यां तनोषीत्येषा देवानां हविःषूषसोऽनुवाक्या । सूत्रितं च । आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि । आ. ६-१४ ॥ इति ॥

हे उषो रश्मिभिर्द्यां दिवमा तनोषि । उरु विस्तीर्णं प्रियमन्तरिक्षं रश्मिभिरा तनोषि । शुक्रेण दीप्तेन शोचिषा प्रकाशेन युक्ता सत्येवं करोषि ॥ ७ ॥