Ṛk 4.51.2
Saṃhitā
अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ ।
व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छंती॑रव्रं॒छुच॑यः पाव॒काः ॥
अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु |
व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ||
ásthuru citrā́ uṣásaḥ purástānmitā́ iva sváravo’dhvaréṣu ǀ
vyū́ vrajásya támaso dvā́rocchántīravrañchúcayaḥ pāvakā́ḥ ǁ
asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu |
vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ ||
Padapāṭha
अस्थुः॑ । ऊं॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ ।
वि । ऊं॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पा॒व॒काः ॥
अस्थुः । ऊं इति । चित्राः । उषसः । पुरस्तात् । मिताःऽइव । स्वरवः । अध्वरेषु ।
वि । ऊं इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥
ásthuḥ ǀ ūṃ íti ǀ citrā́ḥ ǀ uṣásaḥ ǀ purástāt ǀ mitā́ḥ-iva ǀ sváravaḥ ǀ adhvaréṣu ǀ
ví ǀ ūṃ íti ǀ vrajásya ǀ támasaḥ ǀ dvā́rā ǀ ucchántīḥ ǀ avran ǀ śúcayaḥ ǀ pāvakā́ḥ ǁ
asthuḥ ǀ ūṃ iti ǀ citrāḥ ǀ uṣasaḥ ǀ purastāt ǀ mitāḥ-iva ǀ svaravaḥ ǀ adhvareṣu ǀ
vi ǀ ūṃ iti ǀ vrajasya ǀ tamasaḥ ǀ dvārā ǀ ucchantīḥ ǀ avran ǀ śucayaḥ ǀ pāvakāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.051.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.01.02
- Maṇḍala · Anuvāka · Ṛk
- 04.05.035
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.