Ṛk 4.51.1
Saṃhitā
इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् ।
नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥
इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् |
नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ||
idámu tyátpurutámam purástājjyótistámaso vayúnāvadasthāt ǀ
nūnám divó duhitáro vibhātī́rgātúm kṛṇavannuṣáso jánāya ǁ
idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt |
nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya ||
Padapāṭha
इ॒दम् । ऊं॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् ।
नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥
इदम् । ऊं इति । त्यत् । पुरुऽतमम् । पुरस्तात् । ज्योतिः । तमसः । वयुनऽवत् । अस्थात् ।
नूनम् । दिवः । दुहितरः । विऽभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥
idám ǀ ūṃ íti ǀ tyát ǀ puru-támam ǀ purástāt ǀ jyótiḥ ǀ támasaḥ ǀ vayúna-vat ǀ asthāt ǀ
nūnám ǀ diváḥ ǀ duhitáraḥ ǀ vi-bhātī́ḥ ǀ gātúm ǀ kṛṇavan ǀ uṣásaḥ ǀ jánāya ǁ
idam ǀ ūṃ iti ǀ tyat ǀ puru-tamam ǀ purastāt ǀ jyotiḥ ǀ tamasaḥ ǀ vayuna-vat ǀ asthāt ǀ
nūnam ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ gātum ǀ kṛṇavan ǀ uṣasaḥ ǀ janāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.051.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.01.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.034
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.