Ṛk 4.50.11
Saṃhitā
बृह॑स्पत इंद्र॒ वर्ध॑तं नः॒ सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे |
अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ||
bṛ́haspata indra várdhatam naḥ sácā sā́ vām sumatírbhūtvasmé ǀ
aviṣṭám dhíyo jigṛtám púraṃdhīrjajastámaryó vanúṣāmárātīḥ ǁ
bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme |
aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||
Padapāṭha
बृह॑स्पते । इ॒न्द्र॒ । वर्ध॑तम् । नः॒ । सचा॑ । सा । वा॒म् । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥
बृहस्पते । इन्द्र । वर्धतम् । नः । सचा । सा । वाम् । सुऽमतिः । भूतु । अस्मे इति ।
अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥
bṛ́haspate ǀ indra ǀ várdhatam ǀ naḥ ǀ sácā ǀ sā́ ǀ vām ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǀ
aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ jajastám ǀ aryáḥ ǀ vanúṣām ǀ árātīḥ ǁ
bṛhaspate ǀ indra ǀ vardhatam ǀ naḥ ǀ sacā ǀ sā ǀ vām ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǀ
aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ jajastam ǀ aryaḥ ǀ vanuṣām ǀ arātīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.050.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.27.06
- Maṇḍala · Anuvāka · Ṛk
- 04.05.033
- Devatā देवता
- 1-9: Bṛhaspati; 10, 11: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.