Ṛk 4.50.5
Saṃhitā
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।
बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण |
बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ||
sá suṣṭúbhā sá ṛ́kvatā gaṇéna valám ruroja phaligám ráveṇa ǀ
bṛ́haspátirusríyā havyasū́daḥ kánikradadvā́vaśatīrúdājat ǁ
sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa |
bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||
Padapāṭha
सः । सु॒ऽस्तुभा॑ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । रवे॑ण ।
बृह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उत् । आ॒ज॒त् ॥
सः । सुऽस्तुभा । सः । ऋक्वता । गणेन । वलम् । रुरोज । फलिऽगम् । रवेण ।
बृहस्पतिः । उस्रियाः । हव्यऽसूदः । कनिक्रदत् । वावशतीः । उत् । आजत् ॥
sáḥ ǀ su-stúbhā ǀ sáḥ ǀ ṛ́kvatā ǀ gaṇéna ǀ valám ǀ ruroja ǀ phali-gám ǀ ráveṇa ǀ
bṛ́haspátiḥ ǀ usríyāḥ ǀ havya-sū́daḥ ǀ kánikradat ǀ vā́vaśatīḥ ǀ út ǀ ājat ǁ
saḥ ǀ su-stubhā ǀ saḥ ǀ ṛkvatā ǀ gaṇena ǀ valam ǀ ruroja ǀ phali-gam ǀ raveṇa ǀ
bṛhaspatiḥ ǀ usriyāḥ ǀ havya-sūdaḥ ǀ kanikradat ǀ vāvaśatīḥ ǀ ut ǀ ājat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.050.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.26.05
- Maṇḍala · Anuvāka · Ṛk
- 04.05.027
- Devatā देवता
- 1-9: Bṛhaspati; 10, 11: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.