Ṛk 4.50.3
Saṃhitā
बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः ।
तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥
बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः |
तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ||
bṛ́haspate yā́ paramā́ parāvádáta ā́ ta ṛtaspṛ́śo ní ṣeduḥ ǀ
túbhyam khātā́ avatā́ ádridugdhā mádhvaḥ ścotantyabhíto virapśám ǁ
bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ |
tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam ||
Padapāṭha
बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पृशः॑ । नि । से॒दुः॒ ।
तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥
बृहस्पते । या । परमा । पराऽवत् । अतः । आ । ते । ऋतऽस्पृशः । नि । सेदुः ।
तुभ्यम् । खाताः । अवताः । अद्रिऽदुग्धाः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥
bṛ́haspate ǀ yā́ ǀ paramā́ ǀ parā-vát ǀ átaḥ ǀ ā́ ǀ te ǀ ṛta-spṛ́śaḥ ǀ ní ǀ seduḥ ǀ
túbhyam ǀ khātā́ḥ ǀ avatā́ḥ ǀ ádri-dugdhāḥ ǀ mádhvaḥ ǀ ścotanti ǀ abhítaḥ ǀ vi-rapśám ǁ
bṛhaspate ǀ yā ǀ paramā ǀ parā-vat ǀ ataḥ ǀ ā ǀ te ǀ ṛta-spṛśaḥ ǀ ni ǀ seduḥ ǀ
tubhyam ǀ khātāḥ ǀ avatāḥ ǀ adri-dugdhāḥ ǀ madhvaḥ ǀ ścotanti ǀ abhitaḥ ǀ vi-rapśam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.050.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.26.03
- Maṇḍala · Anuvāka · Ṛk
- 04.05.025
- Devatā देवता
- 1-9: Bṛhaspati; 10, 11: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.