Ṛk 4.50.10
Saṃhitā
इंद्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे मं॑दसा॒ना वृ॑षण्वसू ।
आ वां॑ विशं॒त्विंद॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतं ॥
इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू |
आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ||
índraśca sómam pibatam bṛhaspate’smínyajñé mandasānā́ vṛṣaṇvasū ǀ
ā́ vām viśantvíndavaḥ svābhúvo’smé rayím sárvavīram ní yacchatam ǁ
indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū |
ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam ||
Padapāṭha
इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः । सु॒ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥
इन्द्रः । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषण्वसू इति वृषण्ऽवसू ।
आ । वाम् । विशन्तु । इन्दवः । सुऽआभुवः । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥
índraḥ ǀ ca ǀ sómam ǀ pibatam ǀ bṛhaspate ǀ asmín ǀ yajñé ǀ mandasānā́ ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ
ā́ ǀ vām ǀ viśantu ǀ índavaḥ ǀ su-ābhúvaḥ ǀ asmé íti ǀ rayím ǀ sárva-vīram ǀ ní ǀ yacchatam ǁ
indraḥ ǀ ca ǀ somam ǀ pibatam ǀ bṛhaspate ǀ asmin ǀ yajñe ǀ mandasānā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
ā ǀ vām ǀ viśantu ǀ indavaḥ ǀ su-ābhuvaḥ ǀ asme iti ǀ rayim ǀ sarva-vīram ǀ ni ǀ yacchatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.050.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.27.05
- Maṇḍala · Anuvāka · Ṛk
- 04.05.032
- Devatā देवता
- 1-9: Bṛhaspati; 10, 11: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.