Ṛk 4.50.2
Saṃhitā
धु॒नेत॑यः सुप्रके॒तं मदं॑तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।
पृषं॑तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनिं॑ ॥
धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे |
पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ||
dhunétayaḥ supraketám mádanto bṛ́haspate abhí yé nastatasré ǀ
pṛ́ṣantam sṛprámádabdhamūrvám bṛ́haspate rákṣatādasya yónim ǁ
dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre |
pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim ||
Padapāṭha
धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बृह॑स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे ।
पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑तात् । अ॒स्य॒ । योनि॑म् ॥
धुनऽइतयः । सुऽप्रकेतम् । मदन्तः । बृहस्पते । अभि । ये । नः । ततस्रे ।
पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षतात् । अस्य । योनिम् ॥
dhuná-itayaḥ ǀ su-praketám ǀ mádantaḥ ǀ bṛ́haspate ǀ abhí ǀ yé ǀ naḥ ǀ tatasré ǀ
pṛ́ṣantam ǀ sṛprám ǀ ádabdham ǀ ūrvám ǀ bṛ́haspate ǀ rákṣatāt ǀ asya ǀ yónim ǁ
dhuna-itayaḥ ǀ su-praketam ǀ madantaḥ ǀ bṛhaspate ǀ abhi ǀ ye ǀ naḥ ǀ tatasre ǀ
pṛṣantam ǀ sṛpram ǀ adabdham ǀ ūrvam ǀ bṛhaspate ǀ rakṣatāt ǀ asya ǀ yonim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.050.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.26.02
- Maṇḍala · Anuvāka · Ṛk
- 04.05.024
- Devatā देवता
- 1-9: Bṛhaspati; 10, 11: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.