Ṛk 4.51.4
Saṃhitā
कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य ।
येना॒ नव॑ग्वे॒ अंगि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥
कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य |
येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ||
kuvítsá devīḥ sanáyo návo vā yā́mo babhūyā́duṣaso vo adyá ǀ
yénā návagve áṅgire dáśagve saptā́sye revatī revádūṣá ǁ
kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya |
yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa ||
Padapāṭha
कु॒वित् । सः । दे॒वीः॒ । स॒नयः॑ । नवः॑ । वा॒ । यामः॑ । ब॒भू॒यात् । उ॒ष॒सः॒ । वः॒ । अ॒द्य ।
येन॑ । नव॑ऽग्वे । अङ्गि॑रे । दश॑ऽग्वे । स॒प्तऽआ॑स्ये । रे॒व॒तीः॒ । रे॒वत् । ऊ॒ष ॥
कुवित् । सः । देवीः । सनयः । नवः । वा । यामः । बभूयात् । उषसः । वः । अद्य ।
येन । नवऽग्वे । अङ्गिरे । दशऽग्वे । सप्तऽआस्ये । रेवतीः । रेवत् । ऊष ॥
kuvít ǀ sáḥ ǀ devīḥ ǀ sanáyaḥ ǀ návaḥ ǀ vā ǀ yā́maḥ ǀ babhūyā́t ǀ uṣasaḥ ǀ vaḥ ǀ adyá ǀ
yéna ǀ náva-gve ǀ áṅgire ǀ dáśa-gve ǀ saptá-āsye ǀ revatīḥ ǀ revát ǀ ūṣá ǁ
kuvit ǀ saḥ ǀ devīḥ ǀ sanayaḥ ǀ navaḥ ǀ vā ǀ yāmaḥ ǀ babhūyāt ǀ uṣasaḥ ǀ vaḥ ǀ adya ǀ
yena ǀ nava-gve ǀ aṅgire ǀ daśa-gve ǀ sapta-āsye ǀ revatīḥ ǀ revat ǀ ūṣa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.051.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.01.04
- Maṇḍala · Anuvāka · Ṛk
- 04.05.037
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.