Ṛgveda · Maṇḍala 4 · Sūkta 51

Ṛk 4.51.11

Uṣas · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।
व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥

तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः |
वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ||

tádvo divo duhitaro vibhātī́rúpa bruva uṣaso yajñáketuḥ ǀ
vayám syāma yaśáso jáneṣu táddyáuśca dhattā́m pṛthivī́ ca devī́ ǁ

tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ |
vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||

Padapāṭha

तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः ।
व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥

तत् । वः । दिवः । दुहितरः । विऽभातीः । उप । ब्रुवे । उषसः । यज्ञऽकेतुः ।
वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी ॥

tát ǀ vaḥ ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātī́ḥ ǀ úpa ǀ bruve ǀ uṣasaḥ ǀ yajñá-ketuḥ ǀ
vayám ǀ syāma ǀ yaśásaḥ ǀ jáneṣu ǀ tát ǀ dyáuḥ ǀ ca ǀ dhattā́m ǀ pṛthivī́ ǀ ca ǀ devī́ ǁ

tat ǀ vaḥ ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ upa ǀ bruve ǀ uṣasaḥ ǀ yajña-ketuḥ ǀ
vayam ǀ syāma ǀ yaśasaḥ ǀ janeṣu ǀ tat ǀ dyauḥ ǀ ca ǀ dhattām ǀ pṛthivī ǀ ca ǀ devī ǁ

References

Maṇḍala · Sūkta · Ṛk
04.051.11
Aṣṭaka · Adhyāya · Varga · Ṛk
3.8.02.06
Maṇḍala · Anuvāka · Ṛk
04.05.044
Devatā देवता
Uṣas
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.51.11

Interpretations

Sāyaṇa

तद्वो दिव इति व्युष्टायां जपेत् । हे दिवो दुहितरो हे उषसो विभातीर्वो युष्मान् तदुत्तरार्धप्रथमपादेन वक्ष्यमाणं फलं यज्ञकेतुः । यज्ञ एव केतुः प्रज्ञापको यस्य तादृशोऽहमुप ब्रुवे । उपेत्य ब्रवीमि । अथ बहुवदुच्यते । वयं स्तुवन्तो जनेष्वस्मत्समानेषु मध्ये यशसः कीर्तेरन्नस्य वा स्वामिनः स्याम । तद्यशो च्यौः पृथिवी च देवी धत्तां धारयतां ॥ ११ ॥