Ṛk 4.12.4
Saṃhitā
यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ ।
कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥
यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः |
कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ||
yácciddhí te puruṣatrā́ yaviṣṭhā́cittibhiścakṛmā́ káccidā́gaḥ ǀ
kṛdhī́ ṣvásmā́m̐ áditeránāgānvyénāṃsi śiśratho víṣvagagne ǁ
yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ |
kṛdhī ṣv asmāṃ aditer anāgān vy enāṃsi śiśratho viṣvag agne ||
Padapāṭha
यत् । चि॒त् । हि । ते॒ । पु॒रु॒ष॒ऽत्रा । य॒वि॒ष्ठ॒ । अचि॑त्तिऽभिः । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।
कृ॒धि । सु । अ॒स्मान् । अदि॑तेः । अना॑गान् । वि । एनां॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥
यत् । चित् । हि । ते । पुरुषऽत्रा । यविष्ठ । अचित्तिऽभिः । चकृम । कत् । चित् । आगः ।
कृधि । सु । अस्मान् । अदितेः । अनागान् । वि । एनांसि । शिश्रथः । विष्वक् । अग्ने ॥
yát ǀ cit ǀ hí ǀ te ǀ puruṣa-trā́ ǀ yaviṣṭha ǀ ácitti-bhiḥ ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ
kṛdhí ǀ sú ǀ asmā́n ǀ áditeḥ ǀ ánāgān ǀ ví ǀ énāṃsi ǀ śiśrathaḥ ǀ víṣvak ǀ agne ǁ
yat ǀ cit ǀ hi ǀ te ǀ puruṣa-trā ǀ yaviṣṭha ǀ acitti-bhiḥ ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ
kṛdhi ǀ su ǀ asmān ǀ aditeḥ ǀ anāgān ǀ vi ǀ enāṃsi ǀ śiśrathaḥ ǀ viṣvak ǀ agne ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.012.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.12.04
- Maṇḍala · Anuvāka · Ṛk
- 04.02.010
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.