Ṛk 4.12.5
Saṃhitā
म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नां ।
मा ते॒ सखा॑यः॒ सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् |
मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ||
maháścidagna énaso abhī́ka ūrvā́ddevā́nāmutá mártyānām ǀ
mā́ te sákhāyaḥ sádamídriṣāma yácchā tokā́ya tánayāya śám yóḥ ǁ
mahaś cid agna enaso abhīka ūrvād devānām uta martyānām |
mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ ||
Padapāṭha
म॒हः । चि॒त् । अ॒ग्ने॒ । एन॑सः । अ॒भीके॑ । ऊ॒र्वात् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।
मा । ते॒ । सखा॑यः । सद॑म् । इत् । रि॒षा॒म॒ । यच्छ॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥
महः । चित् । अग्ने । एनसः । अभीके । ऊर्वात् । देवानाम् । उत । मर्त्यानाम् ।
मा । ते । सखायः । सदम् । इत् । रिषाम । यच्छ । तोकाय । तनयाय । शम् । योः ॥
maháḥ ǀ cit ǀ agne ǀ énasaḥ ǀ abhī́ke ǀ ūrvā́t ǀ devā́nām ǀ utá ǀ mártyānām ǀ
mā́ ǀ te ǀ sákhāyaḥ ǀ sádam ǀ ít ǀ riṣāma ǀ yáccha ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁ
mahaḥ ǀ cit ǀ agne ǀ enasaḥ ǀ abhīke ǀ ūrvāt ǀ devānām ǀ uta ǀ martyānām ǀ
mā ǀ te ǀ sakhāyaḥ ǀ sadam ǀ it ǀ riṣāma ǀ yaccha ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.012.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.12.05
- Maṇḍala · Anuvāka · Ṛk
- 04.02.011
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.