Ṛgveda · Maṇḍala 4 · Sūkta 12

Ṛk 4.12.1

Agni · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् ।
स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥

यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् |
स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ||

yástvā́magna inádhate yatásruktríste ánnam kṛṇávatsásminnáhan ǀ
sá sú dyumnáirabhyástu prasákṣattáva krátvā jātavedaścikitvā́n ǁ

yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan |
sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān ||

Padapāṭha

यः । त्वाम् । अ॒ग्ने॒ । इ॒नध॑ते । य॒तऽस्रु॑क् । त्रिः । ते॒ । अन्न॑म् । कृ॒णव॑त् । सस्मि॑न् । अह॑न् ।
सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒ऽसक्ष॑त् । तव॑ । क्रत्वा॑ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥

यः । त्वाम् । अग्ने । इनधते । यतऽस्रुक् । त्रिः । ते । अन्नम् । कृणवत् । सस्मिन् । अहन् ।
सः । सु । द्युम्नैः । अभि । अस्तु । प्रऽसक्षत् । तव । क्रत्वा । जातऽवेदः । चिकित्वान् ॥

yáḥ ǀ tvā́m ǀ agne ǀ inádhate ǀ yatá-sruk ǀ tríḥ ǀ te ǀ ánnam ǀ kṛṇávat ǀ sásmin ǀ áhan ǀ
sáḥ ǀ sú ǀ dyumnáiḥ ǀ abhí ǀ astu ǀ pra-sákṣat ǀ táva ǀ krátvā ǀ jāta-vedaḥ ǀ cikitvā́n ǁ

yaḥ ǀ tvām ǀ agne ǀ inadhate ǀ yata-sruk ǀ triḥ ǀ te ǀ annam ǀ kṛṇavat ǀ sasmin ǀ ahan ǀ
saḥ ǀ su ǀ dyumnaiḥ ǀ abhi ǀ astu ǀ pra-sakṣat ǀ tava ǀ kratvā ǀ jāta-vedaḥ ǀ cikitvān ǁ

References

Maṇḍala · Sūkta · Ṛk
04.012.01
Aṣṭaka · Adhyāya · Varga · Ṛk
3.5.12.01
Maṇḍala · Anuvāka · Ṛk
04.02.007
Devatā देवता
Agni
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.12.1

Interpretations

Sri Aurobindo

He who kindles thee, O Fire, and with his ladle in action creates food for thee thrice in the day, may he, awakened to knowledge, be ever with thy illuminations and wholly put forth his force and overcome by thy will, O knower of all things born. (246)