Ṛk 4.32.4
Saṃhitā
व॒यमिं॑द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।
अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥
वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः |
अस्मां-अस्मां इद् उद् अव ||
vayámindra tvé sácā vayám tvābhí nonumaḥ ǀ
asmā́m̐asmām̐ ídúdava ǁ
vayam indra tve sacā vayaṃ tvābhi nonumaḥ |
asmāṃ-asmāṃ id ud ava ||
Padapāṭha
व॒यम् । इ॒न्द्र॒ । त्वे इति॑ । सचा॑ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ ।
अ॒स्मान्ऽअ॑स्मान् । इत् । उत् । अ॒व॒ ॥
वयम् । इन्द्र । त्वे इति । सचा । वयम् । त्वा । अभि । नोनुमः ।
अस्मान्ऽअस्मान् । इत् । उत् । अव ॥
vayám ǀ indra ǀ tvé íti ǀ sácā ǀ vayám ǀ tvā ǀ abhí ǀ nonumaḥ ǀ
asmā́n-asmān ǀ ít ǀ út ǀ ava ǁ
vayam ǀ indra ǀ tve iti ǀ sacā ǀ vayam ǀ tvā ǀ abhi ǀ nonumaḥ ǀ
asmān-asmān ǀ it ǀ ut ǀ ava ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.032.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.27.04
- Maṇḍala · Anuvāka · Ṛk
- 04.03.106
- Devatā देवता
- 1-22: Indra; 23, 24: Indrāśva (Indra’s Two Horses)
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.