Ṛk 4.13.2
Saṃhitā
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।
अनु॑ व्र॒तं वरु॑णो यंति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हयं॑ति ॥
ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा |
अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ||
ūrdhvám bhānúm savitā́ devó aśreddrapsám dávidhvadgaviṣó ná sátvā ǀ
ánu vratám váruṇo yanti mitró yátsū́ryam divyā́roháyanti ǁ
ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā |
anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti ||
Padapāṭha
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ ।
अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥
ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । द्रप्सम् । दविध्वत् । गोऽइषः । न । सत्वा ।
अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आऽरोहयन्ति ॥
ūrdhvám ǀ bhānúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ drapsám ǀ dávidhvat ǀ go-iṣáḥ ǀ ná ǀ sátvā ǀ
ánu ǀ vratám ǀ váruṇaḥ ǀ yanti ǀ mitráḥ ǀ yát ǀ sū́ryam ǀ diví ǀ ā-roháyanti ǁ
ūrdhvam ǀ bhānum ǀ savitā ǀ devaḥ ǀ aśret ǀ drapsam ǀ davidhvat ǀ go-iṣaḥ ǀ na ǀ satvā ǀ
anu ǀ vratam ǀ varuṇaḥ ǀ yanti ǀ mitraḥ ǀ yat ǀ sūryam ǀ divi ǀ ā-rohayanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.013.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.13.02
- Maṇḍala · Anuvāka · Ṛk
- 04.02.014
- Devatā देवता
- 1: Agni, Aśvins, Sūrya; 2: Agni, Mitra, Varuṇa, Savitṛ, Sūrya; 3, 4: Agni, Sūrya; 5: Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.