Ṛk 4.29.1
Saṃhitā
आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इंद्र॑ या॒हि हरि॑भिर्मंदसा॒नः ।
ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्यां॑गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥
आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः |
तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः ||
ā́ naḥ stutá úpa vā́jebhirūtī́ índra yāhí háribhirmandasānáḥ ǀ
tiráścidaryáḥ sávanā purū́ṇyāṅgūṣébhirgṛṇānáḥ satyárādhāḥ ǁ
ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ |
tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ ||
Padapāṭha
आ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः ।
ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि॑ । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥
आ । नः । स्तुतः । उप । वाजेभिः । ऊती । इन्द्र । याहि । हरिऽभिः । मन्दसानः ।
तिरः । चित् । अर्यः । सवना । पुरूणि । आङ्गूषेभिः । गृणानः । सत्यऽराधाः ॥
ā́ ǀ naḥ ǀ stutáḥ ǀ úpa ǀ vā́jebhiḥ ǀ ūtī́ ǀ índra ǀ yāhí ǀ hári-bhiḥ ǀ mandasānáḥ ǀ
tiráḥ ǀ cit ǀ aryáḥ ǀ sávanā ǀ purū́ṇi ǀ āṅgūṣébhiḥ ǀ gṛṇānáḥ ǀ satyá-rādhāḥ ǁ
ā ǀ naḥ ǀ stutaḥ ǀ upa ǀ vājebhiḥ ǀ ūtī ǀ indra ǀ yāhi ǀ hari-bhiḥ ǀ mandasānaḥ ǀ
tiraḥ ǀ cit ǀ aryaḥ ǀ savanā ǀ purūṇi ǀ āṅgūṣebhiḥ ǀ gṛṇānaḥ ǀ satya-rādhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.029.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.18.01
- Maṇḍala · Anuvāka · Ṛk
- 04.03.059
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.