Ṛgveda · Maṇḍala 4 · Sūkta 28

Ṛk 4.28.5

Indra, Soma · Indra · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

ए॒वा स॒त्यं म॑घवाना यु॒वं तदिंद्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।
आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥

एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः |
आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ||

evā́ satyám maghavānā yuvám tádíndraśca somorvámáśvyam góḥ ǀ
ā́dardṛtamápihitānyáśnā riricáthuḥ kṣā́ścittatṛdānā́ ǁ

evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ |
ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||

Padapāṭha

ए॒व । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वम् । तत् । इन्द्रः॑ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य॑म् । गोः ।
आ । अ॒द॒र्दृ॒त॒म् । अपि॑ऽहितानि । अश्ना॑ । रि॒रि॒चथुः॑ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥

एव । सत्यम् । मघऽवाना । युवम् । तत् । इन्द्रः । च । सोम । ऊर्वम् । अश्व्यम् । गोः ।
आ । अदर्दृतम् । अपिऽहितानि । अश्ना । रिरिचथुः । क्षाः । चित् । ततृदाना ॥

evá ǀ satyám ǀ magha-vānā ǀ yuvám ǀ tát ǀ índraḥ ǀ ca ǀ soma ǀ ūrvám ǀ áśvyam ǀ góḥ ǀ
ā́ ǀ adardṛtam ǀ ápi-hitāni ǀ áśnā ǀ riricáthuḥ ǀ kṣā́ḥ ǀ cit ǀ tatṛdānā́ ǁ

eva ǀ satyam ǀ magha-vānā ǀ yuvam ǀ tat ǀ indraḥ ǀ ca ǀ soma ǀ ūrvam ǀ aśvyam ǀ goḥ ǀ
ā ǀ adardṛtam ǀ api-hitāni ǀ aśnā ǀ riricathuḥ ǀ kṣāḥ ǀ cit ǀ tatṛdānā ǁ

References

Maṇḍala · Sūkta · Ṛk
04.028.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.17.05
Maṇḍala · Anuvāka · Ṛk
04.03.058
Devatā देवता
1, 2, 5: Indra, Soma; 3, 4: Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.28.5

Interpretations

Sāyaṇa

हे सोम त्वं चेन्द्रश्चेति युवामुभापूर्वं महान्तमश्व्यमश्वसमूहं गोर्गवां समूहं चादर्दृतं । आदरयतं । अपिहितानि पणिभिराच्छादितानि गवां वृन्दानि क्षाश्चित् पणीनां भूमिश्चाश्नाशनपरेण बलेन रिरिचधुः । रेचितवन्तौ । हे मघवानौ धनवन्ताविन्द्रासोमौ ततृदाना शत्रूणां हिंसकौ युवं युवामेवैवमुक्तप्रकारेण यत्कृतवन्तौ तत्सर्वं सत्यमेव ॥ ५ ॥