Ṛk 4.29.3
Saṃhitā
श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मंद॒यध्यै॑ ।
उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इंद्रः॑ सुती॒र्थाभ॑यं च ॥
श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै |
उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च ||
śrāváyédasya kárṇā vājayádhyai júṣṭāmánu prá díśam mandayádhyai ǀ
udvāvṛṣāṇó rā́dhase túviṣmānkáranna índraḥ sutīrthā́bhayam ca ǁ
śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai |
udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca ||
Padapāṭha
श्र॒वय॑ । इत् । अ॒स्य॒ । कर्णा॑ । वा॒ज॒यध्यै॑ । जुष्टा॑म् । अनु॑ । प्र । दिश॑म् । म॒न्द॒यध्यै॑ ।
उ॒त्ऽव॒वृ॒षा॒णः । राध॑से । तुवि॑ष्मान् । कर॑त् । नः॒ । इन्द्रः॑ । सु॒ऽती॒र्था । अभ॑यम् । च॒ ॥
श्रवय । इत् । अस्य । कर्णा । वाजयध्यै । जुष्टाम् । अनु । प्र । दिशम् । मन्दयध्यै ।
उत्ऽववृषाणः । राधसे । तुविष्मान् । करत् । नः । इन्द्रः । सुऽतीर्था । अभयम् । च ॥
śraváya ǀ ít ǀ asya ǀ kárṇā ǀ vājayádhyai ǀ júṣṭām ǀ ánu ǀ prá ǀ díśam ǀ mandayádhyai ǀ
ut-vavṛṣāṇáḥ ǀ rā́dhase ǀ túviṣmān ǀ kárat ǀ naḥ ǀ índraḥ ǀ su-tīrthā́ ǀ ábhayam ǀ ca ǁ
śravaya ǀ it ǀ asya ǀ karṇā ǀ vājayadhyai ǀ juṣṭām ǀ anu ǀ pra ǀ diśam ǀ mandayadhyai ǀ
ut-vavṛṣāṇaḥ ǀ rādhase ǀ tuviṣmān ǀ karat ǀ naḥ ǀ indraḥ ǀ su-tīrthā ǀ abhayam ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.029.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.18.03
- Maṇḍala · Anuvāka · Ṛk
- 04.03.061
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.