Ṛgveda · Maṇḍala 4 · Sūkta 30

Ṛk 4.30.24

Indra · Indra, Uṣas · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा ।
वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥

वामं-वामं त आदुरे देवो ददात्व् अर्यमा |
वामम् पूषा वामम् भगो वामं देवः करूऌअती ||

vāmáṃvāmam ta ādure devó dadātvaryamā́ ǀ
vāmám pūṣā́ vāmám bhágo vāmám deváḥ kárūḷatī ǁ

vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā |
vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūḷatī ||

Padapāṭha

व॒मम्ऽवा॑मम् । ते॒ । आ॒ऽदु॒रे॒ । दे॒वः । द॒दा॒तु॒ । अ॒र्य॒मा ।
वा॒मम् । पू॒षा । वा॒मम् । भगः॑ । वा॒मम् । दे॒वः । करू॑ळती ॥

वमम्ऽवामम् । ते । आऽदुरे । देवः । ददातु । अर्यमा ।
वामम् । पूषा । वामम् । भगः । वामम् । देवः । करूळती ॥

vamám-vāmam ǀ te ǀ ā-dure ǀ deváḥ ǀ dadātu ǀ aryamā́ ǀ
vāmám ǀ pūṣā́ ǀ vāmám ǀ bhágaḥ ǀ vāmám ǀ deváḥ ǀ kárūḷatī ǁ

vamam-vāmam ǀ te ǀ ā-dure ǀ devaḥ ǀ dadātu ǀ aryamā ǀ
vāmam ǀ pūṣā ǀ vāmam ǀ bhagaḥ ǀ vāmam ǀ devaḥ ǀ karūḷatī ǁ

References

Maṇḍala · Sūkta · Ṛk
04.030.24
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.23.04
Maṇḍala · Anuvāka · Ṛk
04.03.087
Devatā देवता
1-8, 12-24: Indra; 9-11: Indra, Uṣas
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.30.24

Interpretations

Sāyaṇa

हे अदुरे शत्रूणामादारयितरिन्द्र ते तव वामं वामं यद्यद्वननीयं सम्भजनीयं धनमस्ति लोके तद्वामं वस्वर्यमारीणां नियमयितैतन्नामको देवो ददातुय् । प्रयच्छतु । तथा करूळती कृत्तदन्तः पूषा पोषको देवो वामं धनं ददातु । भगोऽपि धनं ददातु । ननु करूळतीत्येतत्संनिहितत्वाद्भग इत्यनेन सम्बन्धनीयं । अथवार्यमादीनां त्रयाणामपि विशेषणत्वेन भाव्यं कथं पूष्णो विशेषणं स्यादिति सखांक्षत्वात् न । सान्निध्यकाङ्क्षयोः सद्भावेऽपि योग्यतामन्तरेणान्वयायोगात् । तस्मात्पूषा प्रपिष्तभागोऽदन्तको हि । तै. सं २-६-८-५ । इत्यादिश्रुतिषु पूष्ण एवादन्तकत्वेन प्रसिद्धेर्व्यवहितस्यापि तस्यैव विशेषत्वं युक्तं । वामं वननीयं भवतीत्याअदि निरुक्तं । ६-३१ । अत्र द्रष्टव्यम् ॥ २४ ॥