Ṛk 4.30.16
Saṃhitā
उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः ।
उ॒क्थेष्विंद्र॒ आभ॑जत् ॥
उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः |
उक्थेष्व् इन्द्र आभजत् ||
utá tyám putrámagrúvaḥ párāvṛktam śatákratuḥ ǀ
ukthéṣvíndra ā́bhajat ǁ
uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ |
uktheṣv indra ābhajat ||
Padapāṭha
उ॒त । त्यम् । पु॒त्रम् । अ॒ग्रुवः॑ । परा॑ऽवृक्तम् । श॒तऽक्र॑तुः ।
उ॒क्थेषु॑ । इन्द्रः॑ । आ । अ॒भ॒ज॒त् ॥
उत । त्यम् । पुत्रम् । अग्रुवः । पराऽवृक्तम् । शतऽक्रतुः ।
उक्थेषु । इन्द्रः । आ । अभजत् ॥
utá ǀ tyám ǀ putrám ǀ agrúvaḥ ǀ párā-vṛktam ǀ śatá-kratuḥ ǀ
ukthéṣu ǀ índraḥ ǀ ā́ ǀ abhajat ǁ
uta ǀ tyam ǀ putram ǀ agruvaḥ ǀ parā-vṛktam ǀ śata-kratuḥ ǀ
uktheṣu ǀ indraḥ ǀ ā ǀ abhajat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.030.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.22.01
- Maṇḍala · Anuvāka · Ṛk
- 04.03.079
- Devatā देवता
- 1-8, 12-24: Indra; 9-11: Indra, Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.