Ṛk 4.30.10
Saṃhitā
अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।
नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥
अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी |
नि यत् सीं शिश्नथद् वृषा ||
ápoṣā́ ánasaḥ saratsámpiṣṭādáha bibhyúṣī ǀ
ní yátsīm śiśnáthadvṛ́ṣā ǁ
apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī |
ni yat sīṃ śiśnathad vṛṣā ||
Padapāṭha
अप॑ । उ॒षाः । अन॑सः । स॒र॒त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ ।
नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥
अप । उषाः । अनसः । सरत् । सम्ऽपिष्टात् । अह । बिभ्युषी ।
नि । यत् । सीम् । शिश्नथत् । वृषा ॥
ápa ǀ uṣā́ḥ ǀ ánasaḥ ǀ sarat ǀ sám-piṣṭāt ǀ áha ǀ bibhyúṣī ǀ
ní ǀ yát ǀ sīm ǀ śiśnáthat ǀ vṛ́ṣā ǁ
apa ǀ uṣāḥ ǀ anasaḥ ǀ sarat ǀ sam-piṣṭāt ǀ aha ǀ bibhyuṣī ǀ
ni ǀ yat ǀ sīm ǀ śiśnathat ǀ vṛṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.030.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.20.05
- Maṇḍala · Anuvāka · Ṛk
- 04.03.073
- Devatā देवता
- 1-8, 12-24: Indra; 9-11: Indra, Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.