Ṛk 4.18.2
Saṃhitā
नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।
ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥
नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि |
बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ||
nā́hámáto nírayā durgáhaitáttiraścátā pārśvā́nnírgamāṇi ǀ
bahū́ni me ákṛtā kártvāni yúdhyai tvena sám tvena pṛcchai ǁ
nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi |
bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai ||
Padapāṭha
न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ ।
ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥
न । अहम् । अतः । निः । अय । दुःऽगहा । एतत् । तिरश्चता । पार्श्वात् । निः । गमानि ।
बहूनि । मे । अकृता । कर्त्वानि । युध्यै । त्वेन । सम् । त्वेन । पृच्छै ॥
ná ǀ ahám ǀ átaḥ ǀ níḥ ǀ aya ǀ duḥ-gáhā ǀ etát ǀ tiraścátā ǀ pārśvā́t ǀ níḥ ǀ gamāni ǀ
bahū́ni ǀ me ǀ ákṛtā ǀ kártvāni ǀ yúdhyai ǀ tvena ǀ sám ǀ tvena ǀ pṛcchai ǁ
na ǀ aham ǀ ataḥ ǀ niḥ ǀ aya ǀ duḥ-gahā ǀ etat ǀ tiraścatā ǀ pārśvāt ǀ niḥ ǀ gamāni ǀ
bahūni ǀ me ǀ akṛtā ǀ kartvāni ǀ yudhyai ǀ tvena ǀ sam ǀ tvena ǀ pṛcchai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.018.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.25.02
- Maṇḍala · Anuvāka · Ṛk
- 04.02.076
- Devatā देवता
- Indra, Aditi
- Ṛṣi ऋषि
- 1: Indra; Vāmadeva Gautama; 2, 3, 8-13: Vāmadeva Gautama; 4-7: Aditi Dākṣāyaṇī; Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.