Ṛk 4.18.3
Saṃhitā
प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।
त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिंद्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥
परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि |
त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ||
parāyatī́m mātáramánvacaṣṭa ná nā́nu gānyánu nū́ gamāni ǀ
tváṣṭurgṛhé apibatsómamíndraḥ śatadhanyám camvóḥ sutásya ǁ
parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni |
tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya ||
Padapāṭha
प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ ।
त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥
पराऽयतीम् । मातरम् । अनु । अचष्ट । न । न । अनु । गानि । अनु । नु । गमानि ।
त्वष्टुः । गृहे । अपिबत् । सोमम् । इन्द्रः । शतऽधन्यम् । चम्वोः । सुतस्य ॥
parā-yatī́m ǀ mātáram ǀ ánu ǀ acaṣṭa ǀ ná ǀ ná ǀ ánu ǀ gāni ǀ ánu ǀ nú ǀ gamāni ǀ
tváṣṭuḥ ǀ gṛhé ǀ apibat ǀ sómam ǀ índraḥ ǀ śata-dhanyám ǀ camvóḥ ǀ sutásya ǁ
parā-yatīm ǀ mātaram ǀ anu ǀ acaṣṭa ǀ na ǀ na ǀ anu ǀ gāni ǀ anu ǀ nu ǀ gamāni ǀ
tvaṣṭuḥ ǀ gṛhe ǀ apibat ǀ somam ǀ indraḥ ǀ śata-dhanyam ǀ camvoḥ ǀ sutasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.018.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.25.03
- Maṇḍala · Anuvāka · Ṛk
- 04.02.077
- Devatā देवता
- Indra, Aditi
- Ṛṣi ऋषि
- 1: Indra; Vāmadeva Gautama; 2, 3, 8-13: Vāmadeva Gautama; 4-7: Aditi Dākṣāyaṇī; Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.