Ṛk 4.18.12
Saṃhitā
कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चरं॑तं ।
कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥
कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् |
कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ||
káste mātáram vidhávāmacakracchayúm kástvā́majighāṃsaccárantam ǀ
káste devó ádhi mārḍīká āsīdyátprā́kṣiṇāḥ pitáram pādagṛ́hya ǁ
kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam |
kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya ||
Padapāṭha
कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् ।
कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥
कः । ते । मातरम् । विधवाम् । अचक्रत् । शयुम् । कः । त्वाम् । अजिघांसत् । चरन्तम् ।
कः । ते । देवः । अधि । मार्डीके । आसीत् । यत् । प्र । अक्षिणाः । पितरम् । पादऽगृह्य ॥
káḥ ǀ te ǀ mātáram ǀ vidhávām ǀ acakrat ǀ śayúm ǀ káḥ ǀ tvā́m ǀ ajighāṃsat ǀ cárantam ǀ
káḥ ǀ te ǀ deváḥ ǀ ádhi ǀ mārḍīké ǀ āsīt ǀ yát ǀ prá ǀ ákṣiṇāḥ ǀ pitáram ǀ pāda-gṛ́hya ǁ
kaḥ ǀ te ǀ mātaram ǀ vidhavām ǀ acakrat ǀ śayum ǀ kaḥ ǀ tvām ǀ ajighāṃsat ǀ carantam ǀ
kaḥ ǀ te ǀ devaḥ ǀ adhi ǀ mārḍīke ǀ āsīt ǀ yat ǀ pra ǀ akṣiṇāḥ ǀ pitaram ǀ pāda-gṛhya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.018.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.26.07
- Maṇḍala · Anuvāka · Ṛk
- 04.02.086
- Devatā देवता
- Indra, Aditi
- Ṛṣi ऋषि
- 1: Indra; Vāmadeva Gautama; 2, 3, 8-13: Vāmadeva Gautama; 4-7: Aditi Dākṣāyaṇī; Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.