Ṛk 4.18.5
Saṃhitā
अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिंद्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टं ।
अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥
अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् |
अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ||
avadyámiva mányamānā gúhākaríndram mātā́ vīryéṇā nyṛ́ṣṭam ǀ
áthódasthātsvayámátkam vásāna ā́ ródasī apṛṇājjā́yamānaḥ ǁ
avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam |
athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ ||
Padapāṭha
अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् ।
अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥
अवद्यम्ऽइव । मन्यमाना । गुहा । अकः । इन्द्रम् । माता । वीर्येण । निऽऋष्टम् ।
अथ । उत् । अस्थात् । स्वयम् । अत्कम् । वसानः । आ । रोदसी इति । अपृणात् । जायमानः ॥
avadyám-iva ǀ mányamānā ǀ gúhā ǀ akaḥ ǀ índram ǀ mātā́ ǀ vīryéṇa ǀ ní-ṛṣṭam ǀ
átha ǀ út ǀ asthāt ǀ svayám ǀ átkam ǀ vásānaḥ ǀ ā́ ǀ ródasī íti ǀ apṛṇāt ǀ jā́yamānaḥ ǁ
avadyam-iva ǀ manyamānā ǀ guhā ǀ akaḥ ǀ indram ǀ mātā ǀ vīryeṇa ǀ ni-ṛṣṭam ǀ
atha ǀ ut ǀ asthāt ǀ svayam ǀ atkam ǀ vasānaḥ ǀ ā ǀ rodasī iti ǀ apṛṇāt ǀ jāyamānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.018.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.25.05
- Maṇḍala · Anuvāka · Ṛk
- 04.02.079
- Devatā देवता
- Indra, Aditi
- Ṛṣi ऋषि
- 1: Indra; Vāmadeva Gautama; 2, 3, 8-13: Vāmadeva Gautama; 4-7: Aditi Dākṣāyaṇī; Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.