Ṛk 4.23.7
Saṃhitā
द्रुहं॒ जिघां॑संध्व॒रस॑मनिं॒द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का ।
ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥
द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका |
ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ||
drúham jíghāṃsandhvarásamanindrā́m tétikte tigmā́ tujáse ánīkā ǀ
ṛṇā́ cidyátra ṛṇayā́ na ugró dūré ájñātā uṣáso babādhé ǁ
druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā |
ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe ||
Padapāṭha
द्रुह॑म् । जिघां॑सन् । ध्व॒रस॑म् । अ॒नि॒न्द्राम् । तेति॑क्ते । ति॒ग्मा । तु॒जसे॑ । अनी॑का ।
ऋ॒णा । चि॒त् । यत्र॑ । ऋ॒ण॒ऽयाः । नः॒ । उ॒ग्रः । दू॒रे । अज्ञा॑ताः । उ॒षसः॑ । ब॒बा॒धे ॥
द्रुहम् । जिघांसन् । ध्वरसम् । अनिन्द्राम् । तेतिक्ते । तिग्मा । तुजसे । अनीका ।
ऋणा । चित् । यत्र । ऋणऽयाः । नः । उग्रः । दूरे । अज्ञाताः । उषसः । बबाधे ॥
drúham ǀ jíghāṃsan ǀ dhvarásam ǀ anindrā́m ǀ tétikte ǀ tigmā́ ǀ tujáse ǀ ánīkā ǀ
ṛṇā́ ǀ cit ǀ yátra ǀ ṛṇa-yā́ḥ ǀ naḥ ǀ ugráḥ ǀ dūré ǀ ájñātāḥ ǀ uṣásaḥ ǀ babādhé ǁ
druham ǀ jighāṃsan ǀ dhvarasam ǀ anindrām ǀ tetikte ǀ tigmā ǀ tujase ǀ anīkā ǀ
ṛṇā ǀ cit ǀ yatra ǀ ṛṇa-yāḥ ǀ naḥ ǀ ugraḥ ǀ dūre ǀ ajñātāḥ ǀ uṣasaḥ ǀ babādhe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.023.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.10.02
- Maṇḍala · Anuvāka · Ṛk
- 04.03.018
- Devatā देवता
- 1-7, 11: Indra; 8-10: Indra, Ṛtam
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.