Ṛk 4.17.17
Saṃhitā
त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्यानां॑ ।
सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥
त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् |
सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ||
trātā́ no bodhi dádṛśāna āpírabhikhyātā́ marḍitā́ somyā́nām ǀ
sákhā pitā́ pitṛ́tamaḥ pitṝṇā́m kártemu lokámuśaté vayodhā́ḥ ǁ
trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām |
sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ ||
Padapāṭha
त्रा॒ता । नः॒ । बो॒धि॒ । ददृ॑शानः । आ॒पिः । अ॒भि॒ऽख्या॒ता । म॒र्डि॒ता । सो॒म्याना॑म् ।
सखा॑ । पि॒ता । पि॒तृऽत॑मः । पि॒तॄ॒णाम् । कर्ता॑ । ई॒म् । ऊं॒ इति॑ । लो॒कम् । उ॒श॒ते । व॒यः॒ऽधाः ॥
त्राता । नः । बोधि । ददृशानः । आपिः । अभिऽख्याता । मर्डिता । सोम्यानाम् ।
सखा । पिता । पितृऽतमः । पितॄणाम् । कर्ता । ईम् । ऊं इति । लोकम् । उशते । वयःऽधाः ॥
trātā́ ǀ naḥ ǀ bodhi ǀ dádṛśānaḥ ǀ āpíḥ ǀ abhi-khyātā́ ǀ marḍitā́ ǀ somyā́nām ǀ
sákhā ǀ pitā́ ǀ pitṛ́-tamaḥ ǀ pitṝṇā́m ǀ kártā ǀ īm ǀ ūṃ íti ǀ lokám ǀ uśaté ǀ vayaḥ-dhā́ḥ ǁ
trātā ǀ naḥ ǀ bodhi ǀ dadṛśānaḥ ǀ āpiḥ ǀ abhi-khyātā ǀ marḍitā ǀ somyānām ǀ
sakhā ǀ pitā ǀ pitṛ-tamaḥ ǀ pitṝṇām ǀ kartā ǀ īm ǀ ūṃ iti ǀ lokam ǀ uśate ǀ vayaḥ-dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.017.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.24.02
- Maṇḍala · Anuvāka · Ṛk
- 04.02.070
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.