Ṛk 4.17.19
Saṃhitā
स्तु॒त इंद्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हंति ।
अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रयं॑ते॒ न मर्ताः॑ ॥
स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति |
अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ||
stutá índro maghávā yáddha vṛtrā́ bhū́rīṇyéko apratī́ni hanti ǀ
asyá priyó jaritā́ yásya śármannákirdevā́ vāráyante ná mártāḥ ǁ
stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti |
asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ ||
Padapāṭha
स्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ।
अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥
स्तुतः । इन्द्रः । मघऽवा । यत् । ह । वृत्रा । भूरीणि । एकः । अप्रतीनि । हन्ति ।
अस्य । प्रियः । जरिता । यस्य । शर्मन् । नकिः । देवाः । वारयन्ते । न । मर्ताः ॥
stutáḥ ǀ índraḥ ǀ maghá-vā ǀ yát ǀ ha ǀ vṛtrā́ ǀ bhū́rīṇi ǀ ékaḥ ǀ apratī́ni ǀ hanti ǀ
asyá ǀ priyáḥ ǀ jaritā́ ǀ yásya ǀ śárman ǀ nákiḥ ǀ devā́ḥ ǀ vāráyante ǀ ná ǀ mártāḥ ǁ
stutaḥ ǀ indraḥ ǀ magha-vā ǀ yat ǀ ha ǀ vṛtrā ǀ bhūrīṇi ǀ ekaḥ ǀ apratīni ǀ hanti ǀ
asya ǀ priyaḥ ǀ jaritā ǀ yasya ǀ śarman ǀ nakiḥ ǀ devāḥ ǀ vārayante ǀ na ǀ martāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.017.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.24.04
- Maṇḍala · Anuvāka · Ṛk
- 04.02.072
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.