Ṛk 4.17.12
Saṃhitā
किय॑त्स्वि॒दिंद्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ ।
यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥
कियत् स्विद् इन्द्रो अध्य् एति मातुः कियत् पितुर् जनितुर् यो जजान |
यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः ||
kíyatsvidíndro ádhyeti mātúḥ kíyatpitúrjanitúryó jajā́na ǀ
yó asya śúṣmam muhukáiríyarti vā́to ná jūtáḥ stanáyadbhirabhráiḥ ǁ
kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna |
yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ ||
Padapāṭha
किय॑त् । स्वि॒त् । इन्द्रः॑ । अधि॑ । ए॒ति॒ । मा॒तुः । किय॑त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान॑ ।
यः । अ॒स्य॒ । शुष्म॑म् । मु॒हु॒कैः । इय॑र्ति । वातः॑ । न । जू॒तः । स्त॒नय॑त्ऽभिः । अ॒भ्रैः ॥
कियत् । स्वित् । इन्द्रः । अधि । एति । मातुः । कियत् । पितुः । जनितुः । यः । जजान ।
यः । अस्य । शुष्मम् । मुहुकैः । इयर्ति । वातः । न । जूतः । स्तनयत्ऽभिः । अभ्रैः ॥
kíyat ǀ svit ǀ índraḥ ǀ ádhi ǀ eti ǀ mātúḥ ǀ kíyat ǀ pitúḥ ǀ janitúḥ ǀ yáḥ ǀ jajā́na ǀ
yáḥ ǀ asya ǀ śúṣmam ǀ muhukáiḥ ǀ íyarti ǀ vā́taḥ ǀ ná ǀ jūtáḥ ǀ stanáyat-bhiḥ ǀ abhráiḥ ǁ
kiyat ǀ svit ǀ indraḥ ǀ adhi ǀ eti ǀ mātuḥ ǀ kiyat ǀ pituḥ ǀ janituḥ ǀ yaḥ ǀ jajāna ǀ
yaḥ ǀ asya ǀ śuṣmam ǀ muhukaiḥ ǀ iyarti ǀ vātaḥ ǀ na ǀ jūtaḥ ǀ stanayat-bhiḥ ǀ abhraiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.017.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.23.02
- Maṇḍala · Anuvāka · Ṛk
- 04.02.065
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.