Ṛk 4.17.3
Saṃhitā
भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।
वधी॑द्वृ॒त्रं वज्रे॑ण मंदसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥
भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः |
वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ||
bhinádgirím śávasā vájramiṣṇánnāviṣkṛṇvānáḥ sahasāná ójaḥ ǀ
vádhīdvṛtrám vájreṇa mandasānáḥ sárannā́po jávasā hatávṛṣṇīḥ ǁ
bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ |
vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ ||
Padapāṭha
भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ ।
वधी॑त् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । सर॑न् । आपः॑ । जव॑सा । ह॒तऽवृ॑ष्णीः ॥
भिनत् । गिरिम् । शवसा । वज्रम् । इष्णन् । आविःऽकृण्वानः । सहसानः । ओजः ।
वधीत् । वृत्रम् । वज्रेण । मन्दसानः । सरन् । आपः । जवसा । हतऽवृष्णीः ॥
bhinát ǀ girím ǀ śávasā ǀ vájram ǀ iṣṇán ǀ āviḥ-kṛṇvānáḥ ǀ sahasānáḥ ǀ ójaḥ ǀ
vádhīt ǀ vṛtrám ǀ vájreṇa ǀ mandasānáḥ ǀ sáran ǀ ā́paḥ ǀ jávasā ǀ hatá-vṛṣṇīḥ ǁ
bhinat ǀ girim ǀ śavasā ǀ vajram ǀ iṣṇan ǀ āviḥ-kṛṇvānaḥ ǀ sahasānaḥ ǀ ojaḥ ǀ
vadhīt ǀ vṛtram ǀ vajreṇa ǀ mandasānaḥ ǀ saran ǀ āpaḥ ǀ javasā ǀ hata-vṛṣṇīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.017.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.21.03
- Maṇḍala · Anuvāka · Ṛk
- 04.02.056
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.