Ṛk 4.37.8
Saṃhitā
तं नो॑ वाजा ऋभुक्षण॒ इंद्र॒ नास॑त्या र॒यिं ।
समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥
तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् |
सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ||
tám no vājā ṛbhukṣaṇa índra nā́satyā rayím ǀ
sámáśvam carṣaṇíbhya ā́ purú śasta magháttaye ǁ
taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim |
sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye ||
Padapāṭha
तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् ।
सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥
तम् । नः । वाजाः । ऋभुक्षणः । इन्द्र । नासत्या । रयिम् ।
सम् । अश्वम् । चर्षणिऽभ्यः । आ । पुरु । शस्त । मघत्तये ॥
tám ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ índra ǀ nā́satyā ǀ rayím ǀ
sám ǀ áśvam ǀ carṣaṇí-bhyaḥ ǀ ā́ ǀ purú ǀ śasta ǀ magháttaye ǁ
tam ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ indra ǀ nāsatyā ǀ rayim ǀ
sam ǀ aśvam ǀ carṣaṇi-bhyaḥ ǀ ā ǀ puru ǀ śasta ǀ maghattaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.037.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.10.03
- Maṇḍala · Anuvāka · Ṛk
- 04.04.048
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.