Ṛk 4.7.4
Saṃhitā
आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥
आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि |
आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ||
āśúm dūtám vivásvato víśvā yáścarṣaṇī́rabhí ǀ
ā́ jabhruḥ ketúmāyávo bhṛ́gavāṇam viśéviśe ǁ
āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi |
ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe-viśe ||
Padapāṭha
आ॒शुम् । दू॒तम् । वि॒वस्व॑तः । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।
आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः॑ । भृग॑वाणम् । वि॒शेऽवि॑शे ॥
आशुम् । दूतम् । विवस्वतः । विश्वाः । यः । चर्षणीः । अभि ।
आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशेऽविशे ॥
āśúm ǀ dūtám ǀ vivásvataḥ ǀ víśvāḥ ǀ yáḥ ǀ carṣaṇī́ḥ ǀ abhí ǀ
ā́ ǀ jabhruḥ ǀ ketúm ǀ āyávaḥ ǀ bhṛ́gavāṇam ǀ viśé-viśe ǁ
āśum ǀ dūtam ǀ vivasvataḥ ǀ viśvāḥ ǀ yaḥ ǀ carṣaṇīḥ ǀ abhi ǀ
ā ǀ jabhruḥ ǀ ketum ǀ āyavaḥ ǀ bhṛgavāṇam ǀ viśe-viśe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.007.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.06.04
- Maṇḍala · Anuvāka · Ṛk
- 04.01.101
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.