Ṛk 4.7.7
Saṃhitā
स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णयं॑त दे॒वाः ।
म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥
ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः |
महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ||
sasásya yádvíyutā sásminnū́dhannṛtásya dhā́manraṇáyanta devā́ḥ ǀ
mahā́m̐ agnírnámasā rātáhavyo véradhvarā́ya sádamídṛtā́vā ǁ
sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ |
mahāṃ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā ||
Padapāṭha
स॒सस्य॑ । यत् । विऽयु॑ता । सस्मि॑न् । ऊध॑न् । ऋ॒तस्य॑ । धाम॑न् । र॒णय॑न्त । दे॒वाः ।
म॒हान् । अ॒ग्निः । नम॑सा । रा॒तऽह॑व्यः । वेः । अ॒ध्व॒राय॑ । सद॑म् । इत् । ऋ॒तऽवा॑ ॥
ससस्य । यत् । विऽयुता । सस्मिन् । ऊधन् । ऋतस्य । धामन् । रणयन्त । देवाः ।
महान् । अग्निः । नमसा । रातऽहव्यः । वेः । अध्वराय । सदम् । इत् । ऋतऽवा ॥
sasásya ǀ yát ǀ ví-yutā ǀ sásmin ǀ ū́dhan ǀ ṛtásya ǀ dhā́man ǀ raṇáyanta ǀ devā́ḥ ǀ
mahā́n ǀ agníḥ ǀ námasā ǀ rātá-havyaḥ ǀ véḥ ǀ adhvarā́ya ǀ sádam ǀ ít ǀ ṛtá-vā ǁ
sasasya ǀ yat ǀ vi-yutā ǀ sasmin ǀ ūdhan ǀ ṛtasya ǀ dhāman ǀ raṇayanta ǀ devāḥ ǀ
mahān ǀ agniḥ ǀ namasā ǀ rāta-havyaḥ ǀ veḥ ǀ adhvarāya ǀ sadam ǀ it ǀ ṛta-vā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.007.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.07.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.104
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.