Ṛk 4.7.3
Saṃhitā
ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्यं॑तो॒ द्यामि॑व॒ स्तृभिः॑ ।
विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥
ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः |
विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ||
ṛtā́vānam vícetasam páśyanto dyā́miva stṛ́bhiḥ ǀ
víśveṣāmadhvarā́ṇām haskartā́ram dámedame ǁ
ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ |
viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame ||
Padapāṭha
ऋ॒तऽवा॑नम् । विऽचे॑तसम् । पश्य॑न्तः । द्याम्ऽइ॑व । स्तृऽभिः॑ ।
विश्वे॑षाम् । अ॒ध्व॒राणा॑म् । ह॒स्क॒र्तार॑म् । दमे॑ऽदमे ॥
ऋतऽवानम् । विऽचेतसम् । पश्यन्तः । द्याम्ऽइव । स्तृऽभिः ।
विश्वेषाम् । अध्वराणाम् । हस्कर्तारम् । दमेऽदमे ॥
ṛtá-vānam ǀ ví-cetasam ǀ páśyantaḥ ǀ dyā́m-iva ǀ stṛ́-bhiḥ ǀ
víśveṣām ǀ adhvarā́ṇām ǀ haskartā́ram ǀ dáme-dame ǁ
ṛta-vānam ǀ vi-cetasam ǀ paśyantaḥ ǀ dyām-iva ǀ stṛ-bhiḥ ǀ
viśveṣām ǀ adhvarāṇām ǀ haskartāram ǀ dame-dame ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.007.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.06.03
- Maṇḍala · Anuvāka · Ṛk
- 04.01.100
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.