Ṛk 4.14.1
Saṃhitā
प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः ।
आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥
प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः |
आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अच्छ ||
prátyagníruṣáso jātávedā ákhyaddevó rócamānā máhobhiḥ ǀ
ā́ nāsatyorugāyā́ ráthenemám yajñámúpa no yātamáccha ǁ
praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ |
ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha ||
Padapāṭha
प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः ।
आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥
प्रति । अग्निः । उषसः । जातऽवेदाः । अख्यत् । देवः । रोचमानाः । महःऽभिः ।
आ । नासत्या । उरुऽगाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ ॥
práti ǀ agníḥ ǀ uṣásaḥ ǀ jātá-vedāḥ ǀ ákhyat ǀ deváḥ ǀ rócamānāḥ ǀ máhaḥ-bhiḥ ǀ
ā́ ǀ nāsatyā ǀ uru-gāyā́ ǀ ráthena ǀ imám ǀ yajñám ǀ úpa ǀ naḥ ǀ yātam ǀ áccha ǁ
prati ǀ agniḥ ǀ uṣasaḥ ǀ jāta-vedāḥ ǀ akhyat ǀ devaḥ ǀ rocamānāḥ ǀ mahaḥ-bhiḥ ǀ
ā ǀ nāsatyā ǀ uru-gāyā ǀ rathena ǀ imam ǀ yajñam ǀ upa ǀ naḥ ǀ yātam ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.014.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.14.01
- Maṇḍala · Anuvāka · Ṛk
- 04.02.018
- Devatā देवता
- 1: Agni Or Liṅgoktadevatāḥ; 2: Agni, Savitṛ, Sūrya; 3, 4: Agni, Uṣas; 5: Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.