Ṛk 4.14.4
Saṃhitā
आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हंतु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।
इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथां ॥
आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ |
इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् ||
ā́ vām váhiṣṭhā ihá té vahantu ráthā áśvāsa uṣáso vyúṣṭau ǀ
imé hí vām madhupéyāya sómā asmínyajñé vṛṣaṇā mādayethām ǁ
ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau |
ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām ||
Padapāṭha
आ । वा॒म् । वहि॑ष्ठाः । इ॒ह । ते । व॒ह॒न्तु॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टौ ।
इ॒मे । हि । वा॒म् । म॒धु॒ऽपेया॑य । सोमाः॑ । अ॒स्मिन् । य॒ज्ञे । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् ॥
आ । वाम् । वहिष्ठाः । इह । ते । वहन्तु । रथाः । अश्वासः । उषसः । विऽउष्टौ ।
इमे । हि । वाम् । मधुऽपेयाय । सोमाः । अस्मिन् । यज्ञे । वृषणा । मादयेथाम् ॥
ā́ ǀ vām ǀ váhiṣṭhāḥ ǀ ihá ǀ té ǀ vahantu ǀ ráthāḥ ǀ áśvāsaḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ
imé ǀ hí ǀ vām ǀ madhu-péyāya ǀ sómāḥ ǀ asmín ǀ yajñé ǀ vṛṣaṇā ǀ mādayethām ǁ
ā ǀ vām ǀ vahiṣṭhāḥ ǀ iha ǀ te ǀ vahantu ǀ rathāḥ ǀ aśvāsaḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ
ime ǀ hi ǀ vām ǀ madhu-peyāya ǀ somāḥ ǀ asmin ǀ yajñe ǀ vṛṣaṇā ǀ mādayethām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.014.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.14.04
- Maṇḍala · Anuvāka · Ṛk
- 04.02.021
- Devatā देवता
- 1: Agni Or Liṅgoktadevatāḥ; 2: Agni, Savitṛ, Sūrya; 3, 4: Agni, Uṣas; 5: Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.